|
|
 |
 |
|
|
१५ मौसलपर्व.jpg)
15. मौसलपर्व
मौसलपर्व - अध्याय 001
॥ श्रीः ॥
15.1. अध्यायः 001
Mahabharata - Mausala Parva - Chapter Topics
प्रजापालनेन निजनगरे भ्रातृभिः सह सुखनिवासिना युधिष्ठिरेण कदाचनाशुभसूचकोत्पातदर्शनम्॥ 1 ॥ ततः कालन्तरे सबलकृष्णानां सर्वयादवानां परस्परं मौसलप्रहारेणि निश्शेषनिधनश्रवणम्॥ 2 ॥
Mahabharata - Mausala Parva - Chapter Text
श्रीवेदव्यासाय नमः।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥ 15-1-1(96913)
वैशम्पायन उवाच। 15-1-1x(8021)
षट्त्रिंशे त्वथ् संप्राप्ते वर्षे कौरवन्दनः।
ददर्श विपरीतानि निमित्तानि युधिष्ठिरः॥ 15-1-1(96914)
ववुर्वाताश्च निर्घाता रूक्षाः शर्करवर्षिणः।
अपसव्यानि शकुना मण्डलानि प्रचक्रिरे॥ 15-1-2(96915)
प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः।
उल्काश्चाङ्गारवर्षिण्यः प्रापतन्गगनाद्भुवि॥ 15-1-3(96916)
आदित्यो रजसा राजन्समवच्छन्नगनाद्भुवि॥
विरश्मिरुदये नित्यं कबन्धैः समलङ्कृतः॥ 15-1-4(96917)
परिवेषाश्च दृश्यन्ते दारुणाश्च द्रसूर्ययोः।
त्रिवर्णाः श्यामरुक्षान्तास्तथा भस्मारुणप्रभाः॥ 15-1-5(96918)
एते चान्ये च बहव उत्पाता भयसंसिनः।
दृश्यन्ते जगतो नाथ दिवमारोढुमिच्छति॥ 15-1-6(96919)
`यस्य प्रसादाद्धर्मोऽयं कृते यद्वत्कलावपि।
पाण्डवाश्च महाभाग युक्तास्तु यशसाऽनघ॥' 15-1-7(96920)
कस्य चित्त्वथ कालस्य कुरुराजो विशङ्कितः।
शुश्राव वृष्णिचक्रस्य मुसलोत्सादनं कृतम्॥ 15-1-8(96921)
विमुक्तं वासुदेवं च श्रुत्वा रामं च पाण्डवः।
समानीयाब्रवीद्भ्रातृन्कि करिष्याम इत्युत॥ 15-1-9(96922)
परस्परं समासाद्य ब्रह्मदण्डबलात्कृतान्।
वृष्णिन्विनष्टास्ते श्रुत्वा व्यथिताः पाण्डवा भृशम्॥ 15-1-10(96923)
निधनं वासुदेवस्य समुद्रस्येव शोषणम्।
वीरा न श्रद्दधुस्तस्य विनाशं शार्ङ्गधन्वनः॥ 15-1-11(96924)
मौसलं ते समाश्रित्य दुःखशोकसमन्विताः।
विष्ण्णा हतसंकल्पाःकि पाण्डवाः समुपाविशन्॥ ॥ 15-1-12(96925)
इति श्रीमन्महाभारते मौसलपर्वणि प्रथमोऽध्यायः॥ 1 ॥
Mahabharata - Mausala Parva - Chapter Footnotes
7-1-12 मौसलं मुसलकृतं कदनं समाश्रित्य मनसि धृत्वा॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|